!अयि सुहृन्नवसत्रमिदं पुरो नवनवा वटव: पथिका गुरो: /
भरतभूवरसंस्कृतिसंगमे स्नपय संस्कृतपथ्यसुपाथसा //
भव सुधास्य उदारदिवौकसामिव सुसंस्कृतसत्पदकौतुकी /
सुखमुपास्स्व यथेष्टवशम्वदप्रियशास्त्रं ज्ञपयन्मनोहरम, //
यदि गुरुर्न वदेत्सुखं वच: सहजं संस्कृतमत्र लीलया /
कथमिहैतु स उत्तमवृद्धतां कथमिहास्त्वपरोपि स मध्यम: //
शिशुरुदेतु कथं नवभाषया व्यवहृतिं युगलस्य पश्यतु /
न युगले यदि तच्च वचो भवेत्कथमिदं वटुरस्तु शिक्षित: //
किमु मुनिर्जननी यदि बाळक: सुख मुवाच ह मातृभाषया /
न यदि तत्किळ सत्यमुपाहर सुरगिरा वचनं हितं वटो: //
त्रि: कोटिर्माणवास्ते प्रतिदिनमिह ये भारते श्रद्दधाना
गैर्वाणी* हन्त वाणी* गुरुकुलमुखत: शिक्षितुं चक्षते भो: /
तेषां चेत्पंक्तिमात्रानुवदनविधिना भाषया चान्ययासौ
शास्ता किं वाक्प्रसन्ना भवति शिशुमतौ ब्रूहि मित्र प्रसन्नः //
............................

No comments:
Post a Comment